भावार्थः

ॐ । ब्रह्म एकम् एव, अद्वितीयम् । यत् किमपि आसीत्, अस्ति भविष्यति वा तदेव सत्, यत् च नास्ति, न व्यक्तम्, भावात्मक-कल्पनाम् अतिक्रान्तं तत् असत् । सत् असत् च उभे अपि ब्रह्मणः रूपे । ब्रह्म इमे उभे अतीतम् । तदतिरिक्तं तद्भिन्नं वा अन्यत् किमपि नास्ति । यत् किमपि त्रिकालगतं त्रिकालातीतं वा तत् सर्वं खलु तदेकं ब्रह्म एव । विश्वे यत् किमपि लघु वा बृहत् वा, उच्चं वा नोचं वा तत् ब्रह्म एव, ब्रह्म एव । जगत् अपि ब्रह्म । जगत् सत्यम्, न मिथ्या ।

सः परात्परः पुरूषः एव भूतम्, भवत्, भविष्यत् इति इदं त्रिकालम् अतीतः, सर्वाणि भुवनानि अतीतः, सर्वाणि भुवनानि सृष्ट्वा तानि प्रविष्टः, सत् असत् इति उभे अतीतः, सत्स्वरूपः, चित्स्वरूपः, आनन्दस्वरूपः, अनादिः, अनन्तः, सनातनः भगवान् ।

सः निर्गुणः सन् अपि गुणान् धारयति, सगुणः, अनन्तगुणः सन् अपि निर्गुणत्वस्य उपभोगं करोति, स्वयं सः निर्गुणत्वं सगुणत्वं च अतीत्य तिष्ठति । सः न निर्गुणः, न गुणी; सः केवलः, अद्वितीयः ।

भुवनानि अतिक्रान्तः सः भुवनानि धारयति, भुवनानि सञ्जातः सः भुवनानि प्रविशति, कालम् अतीतः सः कालः भवति, अनन्तः सः सान्तः प्रकाशते, एकः सः अनेकः भवति, अरूपः सः रूपी भवति । विद्या-अविद्यामय्या चित्-शक्त्या सः एतत् सर्वं सञ्जायते ।

स्वयं सः न धर्ता, न धार्यः, न अनन्तः, न सान्तः, न एकः, न बहुः, न अरूपः, न रूपी, सः केवलः, अद्वितीयः एव ।

एकत्वं च बहुत्वं च, अनन्तं च सान्तं च इति एतानि सर्वाणि नामानि । प्रकाशन्ते एव इमानि चिदात्मनि चिन्मये जगति ।

ॐ तत् सत्, यत् सत् तत् एव चित्, चिन्मयं जगत् चिदात्मनि प्रकाशते, तत् सत्यस्य भगवतः सत्यप्रकाशः ।

यथा सूर्यस्य प्रतिबिम्बः शान्ते जले एकः चले च बहवः, सूर्यः सत्यः, प्रतिबिम्बः सत्यः, सः [प्रतिबिम्बः] सत्स्वरूपसूर्यस्य सत्यप्रकाशः, सः न स्वप्नः, सः तु सत्स्वरूपस्य भगवतः प्रकाशः, यथा वा सूर्यस्य ज्योतिः सौरजगत् स्वशक्त्या सवेगं प्लावयत् प्रकाशते, ज्योतिः सत्यम्, तत् सत्स्वरूपस्य सूर्यस्य सत्यप्रकाशः, सः न मिथ्या आभा, सः तु सत्स्वरूपस्य भगवतः सत्यप्रकाशः, यथा वा सूर्यस्य ज्वालामयं बिम्बं न स्वयं सूर्यः, एतत् भौतिकं रूपं तु अस्माकम् अन्नाश्रिते ज्ञाने सूर्यस्य सूर्यत्वं प्रकाशयति, सूर्यः तु तद्रूपम् अतीतः, सूर्यः सत्यः, तस्य बिम्बाकृति रूपं सत्यम्, तत् सत्स्वरूपस्य सूर्यस्य सत्यप्रकाशः, सः न मायान्वितः, सः तु सत्स्वरूपस्य भगवतः सत्यप्रकाशः, तथा इह जगद्ब्रह्म भगवतः सत्यप्रकाशः, तत् न स्वप्नः, तत् न मायान्वितम्, तत् न मिथ्या आभा, तत् तु सत्स्वरूपस्य भगवतः सत्यप्रकाशः । तत् स्वयं न भगवान्, तथापि सः स्वयं भगवान् एव । एषा परा माया, एषा माया रहस्यमयस्य, योगेश्वरस्य कृष्णस्य योगमाहात्म्यम्, एषा चित्-शक्त्याः आनन्दमयी लीला, परमेश्वरस्य अचिन्त्या गतिः ।

इदं सर्वं व्यावहारिक-दृष्ट्या सत्यम् पारमार्थिक-दृष्ट्या असत्यम् इति कथनं मनसः तुष्ट्यर्थम् एव, विज्ञानार्थं तु वक्तव्यं यत् वस्तुतः सत्ये ब्रह्मणि किमपि असत्यं नास्ति ।

इत्थं यत् प्रकाशते तत् जगदानन्दः एव ।

ॐ तत् सत्, यत् सत् तत् एव चित्, यत् च चित् सः आनन्दः । यत् निरानन्दम्, दुःखम्, दुर्बलम्, अज्ञानम् इति प्रतिभाति तत् आनन्दस्य विकारः, आनन्दस्य क्रीडा ।

यः हि देहधारी जीवः सः स्वप्रकाशमयं जगद्ब्रह्म भोक्तुम् अवतीर्णः आनन्दमयः, प्रच्छन्नः भगवान् एव । एषः दुःखभोगः आनन्दमयः भोगः एव, आनन्दमयः तस्य आनन्दम् एव भुङ्क्ते ।

कः खलु निरानन्दं भोक्तुं साहसं कुर्यात्? यः पूर्णतः आनन्दमयः स एव करोति । यः निरानन्दमयः सः तु निरानन्दस्य भोगं कुर्वन् तं भोक्तुं न शक्नुयात्, आनन्दं विना विनश्येत् । कः दुर्बलः भवितुं शक्नुयात्? यः सर्वशक्तिमान् स एव शक्नुयात् । दुर्बलः हि दुर्बलत्वेन आक्रान्तः स्थातुमपि न पारयेत्, शक्तिं विना विनश्येत् । कः अज्ञानं प्रवेष्टुं समर्थः? यः सर्वज्ञानमयः स एव समर्थः । अज्ञः तु अज्ञानान्धकारे अवस्थातुं न शक्नुयात्, असत् तु असत् एव भवेत्, ज्ञानं विना विनश्येत् । ज्ञानस्य क्रीडा अज्ञानम्, स्वस्मिन् आत्मगोपनम्, शक्तेः क्रीडा दौर्बल्यम्, आनन्दस्य क्रीडा निरानन्दम्, स्वात्मनि आत्मगोपनम् ।

जीवः सानन्दं हसति, सानन्दं क्रन्दति, अश्रूणि मुञ्चति । तमोमये आनन्दे प्रकाशमानः इव, यातनाभिः, प्रचण्डाभिः रतिभिः चेष्टमानः सः आनन्देन स्फुरति, तस्य आनन्दस्य तामसस्य अंशस्य पूर्णभोगार्थं तामसः भूत्वा आनन्दं गोपयति

अहं सान्तः, अशक्तः, दुर्बलः, दुःखी इति एतस्य भावस्य मूलम् अज्ञानम् एव । मया प्रयासेन, तपः क्षयेण, मृत्युना कर्तव्यम्, ज्ञातव्यम्, लब्धव्यम्, त्वं सः, अहम् एषः, यत् त्वं तत् न अहम्, यत् तव शुभं तत् मम अशुभम्, येन तव लाभः तेन मम हानिः, त्वाम् एव हन्यां चेत् सुखी भविष्यामि, अहं नैव सात्त्विकः यत् स्वदुःखेन, स्वहान्या, स्वमृत्युना त्वाम् एव सुखिनं करोमि इत्यादि मनसि अज्ञानस्य स्वरूपम् ।

अहङ्कार एव बीजम्, अहङ्कारमोक्षात् अज्ञानमोक्षः, अज्ञानमोक्षात् दुःखात् मुच्यते । आनन्दमयोऽहम्, सोऽहम्, एकोऽहम्, अनन्तोऽहम्, सर्वोऽहम् इति विज्ञाय जीवः आनन्दमयः भवति, आनन्दः भवति ।

एष एव मोक्षः । मुक्तः सः सर्वेषां भोगानाम् उपभोगं करोति, सर्वान् आनन्दान् अनन्तम् उपभुञ्जानः सान्तैः वियुक्तः न भवति, सान्तानि उपभुञ्जानः अनन्तं न हारयति, स एकः भवति, बहुः भवति, अजन्मा हि सः जायते इव, जायमानः अपि न जायते, न बध्यते, तस्य जन्म न विद्यते, आत्मा अहम् आत्मनि, आत्मना, आत्मानं प्रकाशयामि इति ज्ञानात् विमुक्तः सः क्रीडति ।

हे आनन्दस्य पुत्राः! लीलार्थं हि इदं जगत् । आनन्दार्थं सः लीलामयः सञ्जातः । एतत् ज्ञात्वा लीलां कुरुत, तेन सह योगयुक्ताः क्रीडत, आनन्दस्य उपभोगं कुरुत, एकं भोग्यं भगवन्तं सर्ववस्तुषु प्राप्य तम् उपभुङ्ग्ध्वम् ।

भगवता आदिष्टः अहम् आनन्दं प्रवक्ष्यामि । हे तस्य पुत्राः! अन्धकारं दूरीकृत्य आनन्दः प्रकाशताम् ।