अन्वयः
ॐ । एकम् एव अद्वितीयं ब्रह्म । [तत्] सत्-असत्-रूपम् सत्-असत्-अतीतम् । [तद् विहाय] अन्यत् किञ्चित् न अस्ति । त्रिकाल-घृतं त्रिकाल-अतीतं वा सर्वं तु खलु एकं ब्रह्म । जगत्यां यत् किञ्च अणु वा महत् वा, उदारं वा अनुदारं वा, तत् ब्रह्म एव, ब्रह्म एव । जगत् अपि ब्रह्म । [तत्] सत्यम् न मिथ्या ।
स एव त्रिकाल-अतीतः, सकल-भुवन-अतीतः, सकल-भुवन-प्रविष्टः, सत्-तीतः, असत्-अतीतः, सत्-मयः, चित्-मयः, आनन्दमयः, न-आदि-अन्तः, परात्परः पुरूषः, सनातनः भगवान् ।
सः निर्गुणः [सन् अपि] गुणान् धत्ते, सगुणः, अनन्तगुणः [सन अपि] निर्गुणत्वं भुङ्क्ते, स्वयं च निर्गुणत्वं च सगुणत्वं च अतिवर्तते, [सः] न निर्गुणः, न गुणी, यः केवलः एव ।
भुवन-अतीतः सः भुवनानि धारयति, भुवनभूतः भुवनानि प्रविशति, काल-तीतः कालः भवति, अनन्तः सान्तः प्रकाशते, एकः बहवः, अरूपः रूपो [भवति] विद्या-अविद्यामय्या चित्-शक्त्या ।
स्वयं तु [सः] न धर्ता, न धार्यः, न अनन्तः, न सान्तः, न एकः, न बहुः, न अरूपः, न रूपी, यः केवलः एव ।
एतानि सर्वाणि तु नामानि यत् एकत्वं च बहुत्वं च, अनन्तं च सान्तं च, [एतानि] चिदात्मनि चिन्मये जगति प्रकाशन्ते एव ।
ॐ तत् सत्, यत् च सत् तत् एव चित्, चिन्मयं जगत् चिदात्मनि भासते, [तत्] सत्यस्य भगवतः सत्यप्रकाश ।
यथा सूर्यस्य प्रतिबिम्बः शान्ते जले एकः चले च बहवः, सूर्यः सत्यः, प्रतिबिम्बः सत्यः, सतः सूर्यस्य सत्यप्रकाशः, सः न स्वप्नः, सः तु सतः प्रकाशः, यथा वा सूर्यस्य ज्योतिः सौरं जगत् स्वशक्त्या धावत् इव पुरयत् प्रकाशते, ज्योतिः सत्यम्, सतः सूर्यस्य सत्यप्रकाशः, सः न अलीका भातिः, सः तु सतः सत्यप्रकाशः, यथा वा सूर्यस्य ज्वालामयं बिम्बं स्वयं न सूर्यः, एतत् अन्नमयं रूपं तु अन्नाश्रिते ज्ञाने सूर्यस्य सूर्यत्वं प्रकाशयति, सूर्यः तु तद्रूप-अतीतः, सूर्यः सत्यः, बिम्बाकृति रूपं सत्यम् सतः सूर्यस्य सत्यप्रकाशः, सः न मायान्वितः, सः तु सतः सत्यप्रकाशः, तथा इह जगद्ब्रह्म भगवतः सत्यप्रकाशः, [तत्] न स्वप्नः, न मायान्वितम् न अलीका भातिः, तत् तु सतः सत्यप्रकाशः, [तत्] स्वयं न भगवान् तथापि सः स्वयम् एव । एषा परा माया, एषा [माया] रहस्यमयस्य, योगेश्वरस्य कृष्णस्य योगमाहात्म्यम्, एषा चित्-शक्त्याः आनन्दमयी लीला, परस्य अतर्क्या गतिः ।
इदं सर्वम् अर्थतः सत्यम् परार्थतः असत्यम् इति मनस्तुष्ट्यर्थम्, विज्ञानार्थम् उच्यताम्-सत्ये ब्रह्मणि न हि किञ्चिद् अपि असत्यम् ।
एवं यत् प्रकाशते तत् जगदानन्दः एव ।
ॐ तत् सत्, यत् च सत् तत् एव चित्, यत् च चित् सः आनन्दः । यत् तु निरानन्दम् इति, दुःखम् इति, दुर्बलम् इति, अज्ञानम् इति भासते तत् आनन्दस्य विकारः, आनन्दस्य क्रीडा ।
यः हि जीवः सः स्वप्रकाशमयं जगदब्रह्म भोक्तुम् अवतीर्णः आनन्दमयः प्रच्छन्नः भगवान् । एषः यः दुःखभोगः सः आनन्दमयः भोगः एव, आनन्दमयः तस्य आनन्दम् एव भुङ्क्ते ।
कः हि निरानन्दं भोक्तुम् उत्सहेत? यः सर्वानन्दमयः सः एव उत्सहते, निरानन्दमयः तु निरानन्दं भुञ्जानः न भुञ्जीत, आनन्दं विना प्रणश्येत् । कः दुर्बलः भवितुं शक्नुयात्? यः सर्वशक्तिमान् सः एव शक्नुयात्, दुर्बलः हि दुर्बलत्वेन आक्रान्तः न तिष्ठेत्, शक्तिं विना प्रणश्येत् । कः अज्ञानं प्रवेष्टुं समर्थः, यः सर्वज्ञानमयः सः एव समर्थः, अज्ञः तु तस्मिन् तिमिरे न ध्रियेत, असत् तु असत् एव भवेत्, ज्ञानं विना प्रणश्येत् । अज्ञानं ज्ञानस्य क्रीडा, स्वस्मिन् आत्मगोपनम्; दौर्बल्यं शक्तेः क्रीडा; निरानन्दम् आनन्दस्य क्रीडा, स्वात्मनि आत्मगोपनम् ।
जीवः सानन्दं हसति, सानन्दं क्रन्दति, अश्रूणि मुञ्चति; तमोमये आनन्दे भासमानः इव यातनाभिः चेष्टमानः सानन्दं स्फुरति, प्रचण्डाभिः रतिभिः चेष्टमान सानन्दं स्फुरति; तस्य आनन्दस्य तामसस्य अंशस्य पूर्णभोगार्थं तामसः भूत्वा आनन्दं गोपयति ।
अहं सान्तः, अशक्तः, दुर्बलः, दुःखी हति एतस्य भावस्य मूलम् अज्ञानम् एव । मया प्रयासेन, तपः क्षयेण, मृत्युना कर्तव्यम्, ज्ञातव्यम् लब्धव्यम् त्वं सः, अहम् एषः, यत् त्वं तत् न अहम्, यत् तव शुभं तत् मम अशुभम्, येन तव लाभः तेन मम हानिः, त्वाम् एव हन्यां [चेत्] सुखी भविष्यामि, अहं नैव सात्त्विकः [यत्] स्वदुःखेन, स्वहान्या, स्वमूत्युना त्वाम् एव सुखिनं करोमि इत्यादि मनसि अज्ञानस्य स्वरूपम् ।
अहङ्कारः एव बीजम्, अहङ्कारमोक्षात् अज्ञानमोक्षः, अज्ञानमोक्षात् दुःखात् मुच्यते । ‘आनन्दमयोऽहम् सोऽहम्, एकोऽहम्, अनन्तोऽहम्, सर्वोऽहम्’ इति विज्ञाय [जीवः] आनन्दमयः भवति, आनन्दः भवति ।
एषः एव मोक्षः । मुक्तः सः सर्वेषां भोगान् भुङ्क्ते, सर्वान् आनन्दान् अनन्तं भुञ्जानः सान्तैः न वियुज्यते, सान्तानि भुञ्जानः अनन्तेन न हीयते, सः एकः भवति, बहुः भवति, अजः हि सः जायते इव, जायमानः अपि न जायते, न बध्यते, तस्य जन्म न विद्यते, आत्मा [अहम्] आत्मनि आत्मना आत्मानं प्रकाशयामि इति ज्ञानात् विमुक्तः [सः] क्रीडते ।
[हे] आनन्दस्य पुत्राः! जगत् हि लीलार्थम्, [सः] आनन्दार्थं लीलामयः इति [ज्ञात्वा] लीलां कुरुत, युक्ताः क्रीडत, आनन्दं भुङ्ग्ध्वम्, एकं भोग्यं भगवन्तं सर्ववस्तुषु प्राप्य भुङ्ग्ध्वम् ।
भगवता आदिष्टः हि आनन्दं प्रवक्ष्यामि । [हे] तस्य पुत्राः! तामसम् अपावृत्य आनन्दः प्रकाशताम् ।