Śrīaravindopaniṣad in Devanāgarī

श्रीअरविन्दोपनिषद्

मूलपाठः

ॐ । एकमेवाद्वितीयं ब्रह्म सदसदतीतं

नान्यत् किञ्चिदस्ति त्रिकालधृतं त्रिकालातीतं वा सर्वन्तु खलु

ब्रह्मैकं यत् किञ्च जगत्यामणु वा महद्वोदारं वानुदारं वा ब्रह्मैव

तद् ब्रह्मैवजगदपि ब्रह्म सत्यं न मिथ्या ।

स एव परात्परः पुरूषस्त्रिकालातीतः सकलभुवनातीतः

सकलभुवनप्रविष्टः सदतीतोऽसदतीतः सन्मयः चिन्मय

आनन्दमयोऽनाद्यन्तः सनातनो भगवान् ।

स निर्गुणो गुणान् धत्ते सगुणोऽनन्तगुणो निर्गुणत्वं भुङ्क्ते

स्वयञ्चातिवर्तते निर्गुणत्वञ्च सगुणत्वञ्च न निर्गुणो न गुणी

केवल एव यः ।

स भुवनातीतो भुवनानि धारयति भुवनभूतो भुवनानि

प्रविशति कालातीतः कालो भवत्यनन्तः सान्तः प्रकाशत एको

बहवोऽरूपो रूपी विद्याविद्यामय्या चिच्छक्त्या ।

स्वयन्तु न धर्ता न धार्यो नानन्तः न सान्तो नैको न

बहुः नारूपो न रूपी केवल एव यः ।

सर्वाणि त्वेतानि नामानि यदेकत्वञ्च बहुत्वञ्चा-नन्तञ्च

सान्तञ्च प्रकाशन्त एव चिदात्मनि चिन्मये जगति ।

ॐ तत्सत् यच्च सच्चिदेव तच्चिन्मयं जगत् भासते

चिदात्मनि सत्यप्रकाशः सत्यस्य भगवतः ।

यथा सूर्यस्य प्रतिबिम्ब एकः शान्ते जले बहवश्चले सत्यः

सूर्यः सत्यः प्रतिबिम्बः सत्यप्रकाशः सतः सूर्यस्य न स स्वप्नः

सतः प्रकाशस्तु सः, यथा वा सूर्यस्य ज्योतिः सौरं जगत् स्वशक्त्या

धावदिव पूरयत् प्रकाशते सत्यं ज्योतिः सत्यप्रकाशः सतः सूर्यस्य

न सोऽलीका भातिः सतः सत्यप्रकाशस्तु सः, यथा वा सूर्यस्य ज्वालामयं

बिम्बं न स्वयं सूर्यः सूर्यस्य तु सूर्यत्वं प्रकाशयत्येतदन्नमयं

रूपमन्नाश्रिते ज्ञाने तद्रूपातीतस्तु सूर्यः सत्यः सूर्यः सत्यं रूपं

बिम्बाकृति सत्यप्रकाशः सतः सूर्यस्य न स मायान्वितः सतः

सत्यप्रकाशस्तु सः, तथेह जगद्ब्रह्म सत्यप्रकाशो भगवतः न स्वप्नः

न मायान्वितं नालीका भातिः सतः सत्यप्रकाशस्तु तद् न स्वयं

भगवान् तथापि स्वयमेव सः । एषा परा मायैषा योगमाहात्म्यं

रहस्यमयस्य योगेश्वरस्य कृष्णस्यैषा चिच्छक्त्या आनन्दमयी लीला

परस्यातर्क्या गतिः ।

सर्वमिदमर्थतः सत्यं परार्थतः असत्यमिति मनस्तुष्ट्यर्थं

विज्ञानार्थमुच्यतां न हि किञ्चिदप्यसत्यं सत्ये ब्रह्मणि ।

एवं यत् प्रकाशते जगदानन्द एव तत् ।

ॐ तत्सत् यच्च सच्चिदेव तद्यच्च चित् स आनन्दः ।

यत्तु निरानन्दमिति भासते दुःखमिति दुर्बलमित्यज्ञानमिति

तदानन्दस्य विकार आनन्दस्य क्रीडा ।

यो हि जीवः स आनन्दमयः प्रच्छन्नो भगवान् स्वप्रकाशमयं

जगद्ब्रह्म भोक्तुमवतीर्णः । य एष दुःखभोगः स भोग

एवानन्दमयस्तस्यानन्दमेवानन्दमयो भुङ्कते ।

को हि निरानन्दं भोक्तुमुत्सहेत यः सर्वानन्दमयः स एवोत्सहते

निरानन्दमयस्तु निरानन्दं भुञ्जानः न भुञ्जीतानन्दं विना प्रणश्येत् ।

को दुर्बलो भवितुं शक्नुयाद्यः सर्वशक्तिमान् स एव शक्नुयाद्

दुर्बलो ह्याक्रान्तो दुर्बलत्वेन न तिष्ठेच्छकितं विना प्रणश्येत् ।

कोऽज्ञानं प्रवेष्टुं समर्थो यः सर्वज्ञानमयः स एव समर्थोऽज्ञस्तु

तस्मिंस्तिमिरे न ध्रियेतासत्त्वसदेव भवेद् ज्ञानं विना प्रणश्येत् ।

ज्ञानस्य क्रीडाज्ञानं स्वस्मिन्नात्मगोपनं शक्तेः क्रीडा दौर्बल्यं

निरानन्दमानन्दस्य क्रीडात्मगोपनं स्वात्मनि ।

सानन्दं हसति जीवः सानन्दं क्रन्दत्यश्रूणि मुञ्चति तमोमय

आनन्दे भासमान इव यातनाभिश्चेष्टमानः सानन्दं

स्फुरति सानन्दं स्फुरति चेष्टमानः प्रचण्डाभी रतिभिः ।

पूर्णभोगार्थं तस्यानन्दस्य तामसस्यांशस्य तामसो भूत्वानन्दं गोपयति ।

अज्ञानं मूलमेतस्य भावस्य सान्त एवाहमित्यशक्तो

दुर्बलो दुःखी मया कर्तव्यं ज्ञातव्यं लब्धव्यं प्रयासेन तपः क्षयेण

मृत्युना स त्वमेषोऽहं यत्त्वं न तदहं यत्तव शुभं तन्ममाशुभं

येन तव लाभस्तेन मम हानिः त्वामेव हन्यां सुखी भविष्यामि

नैव सात्त्विकोऽहं त्वामेव सुखिनं करोमि स्वदुःखेन स्वहान्या

स्वमृत्युनेत्याद्यज्ञानस्य स्वरूपं मनसि ।

अहङ्कार एव बीजमहङ्कारमोक्षादज्ञानमोक्षः

अज्ञानमोक्षाद् दुःखान्मुच्यते आनन्दमयोऽहं

सोऽहमेकोऽहमनन्तोऽहं सर्वोऽहमिति विज्ञायानन्दमयो

भवत्यानन्दो भवति ।

एष एव मोक्षः । स मुक्तः सर्वेषां भोगान् भुङ्क्ते

सर्वानानन्दाननन्तं भुञ्जानो न सान्तैर्वियुज्यते सान्तानि भुञ्जानो

नानन्तेन हीयते स एको भवति बहुर्भवति स ह्यजो जायत इव

जायमानोऽपि न जायते न बध्यते न जन्म तस्य विद्यते

आत्मन्यात्मात्मना प्रकाशयाम्यात्मान-मिति ज्ञानाद् विमुक्तः क्रीडते ।

लीलार्थं हि जगदानन्दार्थं लीलामय इति लीलां

कुरुता-नन्दस्य पुत्राः युक्ताः क्रीडतानन्दं भुङ्ग्ध्वमेकं भोग्यं

भगवन्तं प्राप्य भुङ्ग्ध्वं सर्ववस्तुषु ।

आनन्दं हि प्रवक्ष्यामि भगवतादिष्टः ।

तामसमपावृत्या-नन्दः प्रकाशतां तस्य पुत्राः!

Dr. Sampadananda Mishra (Sri Aurobindo Society, Pondicherry) rezitiert die gesamte Upanishad.

Die Upanishad wird in der traditionellen Weise des Gesanges wiedergegeben.